पु॒नन्तु॑ मा पि॒तर॑: सो॒म्यास॑: पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॒श्नवै
punántu mā pitáraḥ somyā́saḥ punántu mā pitāmahā́ḥ punántu prapitāmahā́ḥ | pavítreṇa śatā́yuṣā | punántu mā pitāmahā́ḥ punántu prapitāmahā́ḥ | pavítreṇa śatā́yuṣā víśvam ā́yur vy-aśnavai ||
ソーマに縁ある祖霊たちよ、われを清めたまえ。祖父たちよ、われを清めたまえ。曾祖父たちよ、われを清めたまえ――浄めの濾し器(パヴィトラ)により、百の寿命をもって。祖父たちよ、われを清めたまえ。曾祖父たちよ、われを清めたまえ――浄めの濾し器(パヴィトラ)により、百の寿命をもって。われがあらゆる寿命に遍く到達せんことを。
पुनन्तु । मा । पितरः । सोम्यासः । पुनन्तु । मा । पितामहाः । पुनन्तु । प्रपितामहाः । पवित्रेण । शतायुषा । पुनन्तु । मा । पितामहाः । पुनन्तु । प्रपितामहाः । पवित्रेण । शतायुषा । विश्वम् । आयुः । वि-अश्नवै ।