यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ । इ॒मं तᳪ शु॒क्रं मधु॑मन्त॒मिन्दु॒ᳪ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि
yám aśvínā námucer āsurā́d ádhi sárasvaty ásunod índriyā́ya | imáṃ táṃ śúkraṃ mádhumantam índuṃ sómaṃ rājā́nam ihá bhakṣayāmi ||
アシュヴィン双神がアスラのナムチ(Namuci)より、またサラスヴァティー(Sarasvatī)が主権の力を得るために搾り出したそのもの——この輝ける蜜なる滴、ソーマ王(Soma-rājan)を、われはいまここに享受する。
यम् । अश्विनौ । नमुचेः । असुरात् । अधि । सरस्वती । असुनोत् । इन्द्रियाय । इमम् । तम् । शुक्रम् । मधुमन्तम् । इन्दुम् । सोमम् । राजानम् । इह । भक्षयामि ।