इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणौ॒ याभ्या॒ᳪ रक्षा॑ᳪस्यप॒हᳪस्य॑ग्ने । ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥
imáu te pakṣā́v ajárāu patatríṇau yā́bhyāṃ rákṣāṃsy apaháṃsy agne | tā́bhyāṃ patema sukr̥tā́m u lokáṃ yátra ŕ̥ṣayo jagmúḥ prathamajā́ḥ purāṇā́ḥ ||
これらは汝の二つの翼、不老にして飛翔するもの。これによって汝は羅刹・魔類を払い退ける、アグニ(Agni)よ。その二翼によって我らは善業の者の世界へと飛び至らん。そこへは、太古の聖仙たち、初生の者、古の者が、昔すでに往き着きたり。
इ॒मौ । ते॒ । प॒क्षौ । अ॒जरौ॑ । प॒त॒त्रिणौ॑ । याभ्या॑म् । रक्षा॑म्-सि । अ॒प॒हᳪस्य॑ । अ॒ग्ने॒ । ताभ्या॑म् । प॒ते॒म॒ । सु॒कृता॑म् । उ॒ । लो॒कम् । यत्र॑ । ऋष॑यः । ज॒ग्मुः । प्र॒थ॒म॒जाः । पु॒रा॒णाः ।