स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
satyáṃ ca me śraddhā́ ca me jágac ca me dhánaṃ ca me víśvaṃ ca me máhaś ca me krīḍā́ ca me módaś ca me jātáṃ ca me janiṣyámāṇaṃ ca me sūktáṃ ca me sukṛtáṃ ca me yajñéna kalpantām
真実も我に、信も我にあれ。動く世界も我に、財も我にあれ。万有も我に、偉大も我にあれ。遊戯も我に、歓喜も我にあれ。生まれたものも我に、生まれ来たるものも我にあれ。善く語られた言葉も我に、善く為された業も我にあれ。これらすべて、祭祀(yajña)によって正しく成就せしめられよ。
सत्यम् च मे । श्रद्धा च मे । जगत् च मे । धनम् च मे । विश्वम् च मे । महः च मे । क्रीडा च मे । मोदः च मे । जातम् च मे । जनिष्यमाणम् च मे । सूक्तम् च मे । सुकृतम् च मे । यज्ञेन कल्पन्ताम् ।