ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒ परू॑ᳪषि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
ójaś ca me sáhaś ca ma ātmā́ ca me tanū́ś ca me śárma ca me várma ca me 'ṅgā́ni ca me 'sthī́ni ca me párūṃṣi ca me śárīrāṇi ca ma ā́yuś ca me járā ca me yajñéna kalpantām ||
我に精気(ojas)あれ、我に忍耐(sahas)あれ。我に自己(ātman)あれ、我に身体(tanū)あれ。我に安護(śarman)あれ、我に鎧(varman)あれ。我に肢(aṅgāni)あれ、我に骨(asthīni)あれ、我に関節(parūṃṣi)あれ。我に諸々の身の構え(śarīrāṇi)あれ。我に寿命(āyus)あれ、我に老い(jarā)あれ——これらすべて、祭祀(yajña)によって我のために正しく整えられんことを。
ओजः । च । मे । सहः । च । मे । आत्मा । च । मे । तनूः । च । मे । शर्म । च । मे । वर्म । च । मे । अङ्गानि । च । मे । अस्थीनि । च । मे । परूषि । च । मे । शरीराणि । च । मे । आयुः । च । मे । जरा । च । मे । यज्ञेन । कल्पन्ताम् ।