आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । स्तोम॑श्च यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ । स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑
ā́yur yajñéna kalpatāṃ prāṇó yajñéna kalpatāṃ cákṣur yajñéna kalpatā́ṃ śrótraṃ yajñéna kalpatāṃ vā́g yajñéna kalpatāṃ máno yajñéna kalpatām ātmā́ yajñéna kalpatāṃ bráhmā yajñéna kalpatāṃ jyótiḥ yajñéna kalpatā́ṃ svàr yajñéna kalpatāṃ pṛ́ṣṭhaṃ yajñéna kalpatāṃ yajñó yajñéna kalpatām | stómaś ca yájuś ca ṛ́k ca sā́ma ca bṛhácc ca rathantaráṃ ca | svàrdevā́ aganmā́mṛtā́ abhūma prajā́pateḥ prajā́ abhūma véṭ svā́hā
寿命が祭祀によって整えられますように。息(プラーナ)が祭祀によって整えられますように。眼が祭祀によって整えられますように。耳が祭祀によって整えられますように。言葉が祭祀によって整えられますように。心(マナス)が祭祀によって整えられますように。自己(Ātman)が祭祀によって整えられますように。ブラフマンの力が祭祀によって整えられますように。光が祭祀によって整えられますように。天界の光(Svar)が祭祀によって整えられますように。背が祭祀によって整えられますように。祭祀が祭祀によって整えられますように。 ストーマ(Stoma)とヤジュス(Yajus)、リク(Ṛk)とサーマン(Sāman)、またブリハト(Bṛhat)とラタンタラ(Rathantara)も。 われらは天の光へ到り、われらは不死となり、プラジャーパティ(Prajāpati)の子らとなる。VET。スヴァーハー!
आयुः । यज्ञेन । कल्पताम् । प्राणः । यज्ञेन । कल्पताम् । चक्षुः । यज्ञेन । कल्पताम् । श्रोत्रम् । यज्ञेन । कल्पताम् । वाक् । यज्ञेन । कल्पताम् । मनः । यज्ञेन । कल्पताम् । आत्मा । यज्ञेन । कल्पताम् । ब्रह्म । यज्ञेन । कल्पताम् । ज्योतिः । यज्ञेन । कल्पताम् । स्वः । यज्ञेन । कल्पताम् । पृष्ठम् । यज्ञेन । कल्पताम् । यज्ञः । यज्ञेन । कल्पताम् । स्तोमः । च । यजुः । च । ऋक् । च । साम । च । बृहत् । च । रथन्तरम् । च । स्वः-देवाः । अगन्म । अमृताः । अभूम । प्रजापतेः । प्रजाः । अभूम । वेट् । स्वाहा ।