स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः
samyák sravanti saríto ná dhenā́ antar-hṛdā́ mánasā pūyámānāḥ | eté arṣanty ū́rmayo ghṛtásya mṛgā́ iva kṣipaṇór ī́ṣamāṇāḥ ||
それらは正しく流れる、川のごとく、乳牛のごとく。内なる心を貯えとして、意(manas)により清められて。これらは酥油(ghṛta)のうねり、流れ出づる波――投げ手の手より放たれ、駆り立てられて疾走する鹿のごとく。
स॒म्यक् । स्र॑वन्ति । स॒रितः॑ । न । धेना॑ः । अ॒न्तः-हृ॒दा । मन॑सा । पू॒यमा॑नाः । ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः॑ । घृ॒तस्य॑ । मृ॒गाः । इ॒व॒ । क्षि॒प॒णोः । ईष॑माणाः