अ॒पामि॒दं न्यय॑नᳪ समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व
apā́m idā́m nyáyanam samudrásya nivéśanam | anyā́m̐s te asmát tapantu hetáyaḥ pāvakó asmábhyām̐ śivó bhava
これは水の下りゆく道、海の安住の処である。汝の矢は他の者を焼き、われらから遠ざけよ。われらにとって浄化者(パーヴァカ)となり、われらにとって吉祥にして安寧たれ。
अ॒पाम् । इ॒दम् । नि-अय॑नम् । समु॒द्रस्य॑ । नि॒वेश॑नम् । अ॒न्यान् । ते॑ । अ॒स्मत् । त॑पन्तु । हे॒तयः॑ । पाव॒कः । अ॒स्मभ्य॑म् । शि॒वः । भ॑व ।