अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ᳪ सेना॑ अवतु॒ प्र यु॒त्सु
abhí gotrā́ṇi sáhasā gā́hamāno’dayo vīráḥ śatámanyur índraḥ | duścyavanáḥ pṛtanāṣā́ḍ ayúdhyo’smā́kaṃ sénā avatu prá yútsu ||
彼は威力をもって諸氏族に突進し、深く踏み入る――容赦なき英雄、百重の憤怒をもつインドラ。動かし難く、軍勢を屈する者、征服されぬ者よ。戦いのただ中、前陣において我らの軍を守り給え。
अभि । गोत्राणि । सहसा । गाहमान: । अ-दय: । वीर: । शत-मन्यु: । इन्द्र: । दुश्-च्यवन: । पृतना-षाट् । अ-युध्य: । अस्माकम् । सेनाम् । अवतु । प्र । युत्सु