प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
paraméṣṭhī tvā sādáyatu divás-pṛṣṭhé jyótiṣmatīm | víśvasmai prāṇā́yāpānā́ya vyānā́ya víśvaṃ jyótiṛ yaccha | sū́ryas te ’dhipátiḥ táyā devátayā ’ṅgirasvád dhrúvā sīda
パラメーシュティン(Parameṣṭhin)が汝を、光輝ある天の背に坐せしめたまえ。全世界のために—吸気(prāṇa)、呼気(apāna)、遍行の気(vyāna)のために—普遍の光を授けよ。太陽が汝の主宰である。その神格(devatā)によって、アンギラス(Aṅgiras)のごとき力よ、堅固なるもの(Dhruvā)よ、坐せよ。
प॒र॒मे॒ष्ठी । त्वा॑ । सा॒द॒य॒तु॒ । दि॒वः-पृ॒ष्ठे । ज्योति॑ष्मतीम् । विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । विश्व॑म् । ज्योति॑ः । य॒च्छ॒ । सूर्यः॑ । ते॒ । अधि॑पतिः । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॑द