अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्य॒ः । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑ः । तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः
ágne tváṃ no ántama utá trātā́ śivó bhava varūthyàḥ | vásur agnír vásu-śravā́ ácchā́ nakṣi dyumáttamaṃ rayíṃ dā́ḥ | táṃ tvā śociṣṭha dīdivaḥ sumnā́ya nūnám īmahe sákhībhyaḥ ||
アグニよ、汝はわれらに最も近き者、また守護者なり。吉祥にして、庇護の盾となれ。富めるアグニ、富の名声ある者よ、ここに来たれ。われらに到り、最も輝ける財を与えよ。最も光り輝き、燦然たる者よ、汝の恩寵を求めて、いまわれらは汝に祈り願う——われらの友のために。
अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भव । वरूथ्यः । वसुः । अग्निः । वसु-श्रवाः । अच्छ । नक्षि । द्युमत्तमम् । रयिम् । दाः । तम् । त्वा । शोचिष्ठ । दीदिवः । सुम्नाय । नूनम् । ईमहे । सखिभ्यः ।