षो॒ड॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒ᳪश स्तोमो॒ वर्चो॒ द्रवि॑णम् । अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व
ṣoḍaśī́ stóma ójo dráviṇaṁ cátuścatvāriṁś stómo várcó dráviṇam | agnéḥ púriṣam asy ápsó nā́ma tā́ṁ tvā víśve abhí gṛṇantu devā́ḥ | stómapṛṣṭhā ghṛtávatī́há sī́da prajā́vad asmē dráviṇā yájasva
「ショーダシン(Ṣoḍaśin)のストーマ」は力であり、富である。「四十四重のストーマ」は輝きであり、富である。汝はアグニ(Agni)の「充填(満たし)」、汝の名は「業(わざ)」である。すべての神々が汝を讃えんことを。讃歌を背とし、酥油に満ちたる者よ、ここに坐せ。われらのために、子孫を伴う富を祭り献ぜよ。
षोडशी । स्तोमः । ओजः । द्रविणम् । चतुः-चत्वारिंशः । स्तोमः । वर्चः । द्रविणम् । अग्नेः । पुरीषम् । असि । अप्सः । नाम । ताम् । त्वा । विश्वे । अभि । गृणन्तु । देवाः । स्तोम-पृष्ठा । घृत-वती । इह । सीद । प्रजा-वत् । अस्मे । द्रविणा । यजस्व