अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शे-वि॑शे
ayám ihá prathamó dhā́yi dhātṛ́bhir hó̄tā yájiṣṭho adhvaréṣv ī́ḍyaḥ | yám apnávāno bhṛ́gavo virurucúr váneṣu citráṃ vibhváṃ víśe-víśe
この者はここに、まず諸々の建立者によって据えられた――ホートリ(Hotṛ)、最もよく供犠する者、祭儀において讃えらるべき者として。ブリグ(Bhṛgu)族はこれを得て、森々において輝かせた――妙なるもの、遍在するものとして――あらゆる氏族、あらゆる民のために。
अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॑यि । धा॒तृभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । यम् । अ॒प्न॒वानः । भृग॑वः । वि॒रु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒भ्वम् । वि॒शे-वि॑शे