अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे
agné táva śrávo váyo máhi bhrājante a̱rcáyo vibhāv̄aso | bṛ́hadbhāno śávāsā vā́jam ukthyáṃ dádhāsi dāśúṣe kave ||
アグニよ、汝の名声は大いにして、汝の生命力もまた大いなり。遍く照らす者よ、汝の炎は輝き放つ。大いなる光輝の者よ、汝はその力によって、供犠する者に、讃歌に値する賞(勝利)を授けたまう、賢者よ。
अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्राजन्ते । अर्चयः॑ । वि॒भा॒व॒सो॒ इति॑ । बृह॑त् । भानः॑ । शव॑सा । वाज॑म् । उ॒क्थ्य॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ।