Sukta 3.62
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः । सोमः सधस्थमासदत् ॥
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒: सह॑मानः । सोम॑: स॒धस्थ॒मास॑दत् ॥
asmā́kam ā́yur vardháyann abhímātīḥ sáhamānaḥ | sómaḥ sadhástham ā́sadat ||
われらの生命力を増し、敵対の圧迫に打ち勝ちながら、ソーマは共なる基座に座を占めた——われらのうちに堅固な支えとして据えられて。
अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः । सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥अस्माकम् । आयुः । वर्धयन् । अभिमातीः । सहमानः । सोमः । सधस्थम् । आ । असदत् ॥asmākam | āyuḥ | vardhayan | abhi-mātīḥ | sahamānaḥ | somaḥ | sadha-stham | ā | asadat