Sukta 10.70
वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् । स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥
वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् । स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥
vánaspate raśanáyā ni-yū́yā devā́nāṃ pā́tha úpa vakṣi vidvā́n | svádāti deváḥ kṛṇávad dhavī́ṃṣy ávatāṃ dyā́vāpṛthivī́ hávaṃ me ||
森木の主ヴァナスパティ(Vanaspati)よ、縄に結ばれて進み来たる者よ、神々の道を知りて、われらをその道へと導きたまえ。神よ、供物をスヴァダー(svadā)にかなう甘美なるものとなしたまえ。天と地とが、わが呼びかけを守りたまわんことを。
वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । दे॒वाना॑म् । पाथः॑ । उप॑ । व॒क्षि॒ । वि॒द्वान् । स्वदा॑ति । दे॒वः । कृ॒णव॑त् । ह॒वींषि॑ । अव॑ताम् । द्यावा॑पृथि॒वी इति॑ । हव॑म् । मे॒ ॥वनस्पते । रशनया । नियूय । देवानाम् । पाथः । उप । वक्षि । विद्वान् । स्वदाति । देवः । कृणवत् । हवींषि । अवताम् । द्यावापृथिवी इति । हवम् । मे ॥vanaspate | raśanayā | ni-yūya | devānām | pāthaḥ | upa | vakṣi | vidvān | svadāti | devaḥ | kṛṇavat | havīṃṣi | avatām | dyāvāpṛthivī iti | havam | me