Sukta 1.15
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि । देवान्देवयते यज ॥
गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वान्दे॑वय॒ते य॑ज ॥
gā́rhapatyena santya ṛtúnā yájnanīr asi | devā́n devayaté yaja ||
ガールハパティヤ(家火)を基としてṛtaに安住し、正しい度量によって汝は祭祀の導き手である。神を求める者のために、諸神へ供犠せよ。
गार्ह॑पत्येन । स॒न्त्य॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽनीः । अ॒सि॒ । दे॒वान् । दे॒व॒य॒ते । य॒ज॒ ॥गार्हपत्येन । सन्त्य । ऋतुना । यज्ञनीः । असि । देवान् । देवयते । यज ॥gārhapatyena | santya | ṛtunā | yajña-nīḥ | asi | devān | devayate | yaja