Adhyaya 54
Dashama SkandhaAdhyaya 5460 Verses

Adhyaya 54

Chapter 54

シュリー・クリシュナはルクミニーの書簡を受け取り、シシュパーラとの強制的な婚姻から彼女を救うためクンディナプラへ赴く。ルクミニーが女神アンビカーの社で祈願する折、クリシュナは彼女を戦車に乗せて連れ去り、その信愛の誓いを成就させる。ルクミと同盟軍は追撃するが、ヤドゥ族の勇士たちに敗れる。バララーマは慈悲によりルクミの命を赦し、クリシュナはルクミニーとヴァイシュナヴァの聖なる儀礼に則って婚礼を挙げる。

Shlokas

Verse 1

श्री-शुक उवाच इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः । स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः ॥

シュリー・シュカは語った。これを聞くや、彼らは皆激しく憤り、乗り物に乗って鎧をまとい、それぞれの軍勢で道を取り囲み、弓を構えて追撃に出た。

Verse 2

तान् आपतत आलोक्य यादवान् ईक-यूथपाः । तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते ॥

彼らが突進して来るのを見て、王よ、ヤドゥ軍の将たちは正面に立ち、各々の弓弦を鳴り響かせた。

Verse 3

अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्रकोविदाः । मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥

馬上、象の背、戦車の上にいる武芸に長けた戦士たちは、山々に雨の幕を注ぐ雲のように、矢の豪雨を放った。

Verse 4

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमाः । सव्रीड्मैक्षत तद्वक्त्रं भयविह्वललोचना ॥

夫の軍が矢の雨に覆われるのを見て、細腰のルクミニーは恐れに震える眼で、恥じらいを含んだまなざしのまま、主の御顔を見つめた。

Verse 5

प्रहस्य भगवान् आह मा स्म भैर् वाम-लोचने । विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् ॥

至上主は微笑んで言われた。「鹿のような瞳の君よ、恐れるな。この敵軍はただちに、そなたの者たちによって滅ぼされよう。」

Verse 6

तेषां तद्-विक्रमं वीरा गद-सङ्कर्षणादयः । अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् ॥

敵の武勇に耐えかねて、勇士ガダ、サンカルシャナ(バララーマ)らは、鉄の矢で敵の馬・象・戦車を打ち倒した。

Verse 7

पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि । स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः ॥

地上には、戦車の武者・騎馬の兵・象乗りの兵の首が幾百万と落ちた。耳飾りや王冠、そして頭巾までもそのまま残っていた。

Verse 8

हस्ताः सासि-गदेṣ्व-आसाः करभा ऊरवो ’ङ्घ्रयः । अश्वाश्वतर-नागोष्ट्र-खर-मर्त्य-शिरांसि च ॥

腕が落ちた――剣や棍棒や弓を握ったまま――前腕、腿、足もまた落ちた。さらに馬、騾馬、象、駱駝、驢馬、そして人の首も落ちた。

Verse 9

हन्यमान-बलानीका वृष्णिभिर् जय-काङ्क्षिभिः । राजानो विमुखा जग्मुर् जरासन्ध-पुरःसराः ॥

勝利を求めるヴリシュニ族に軍勢を斬り崩され、諸王は背を向けて逃げ去った――退却の先頭に立ったのはジャラーサンダであった。

Verse 10

शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् । नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् ॥

彼らはシシュパーラに近づいた。妻を奪われた男のように彼は苦悶し、輝きは失せ、気力は萎え、絶望に顔は乾ききっていた。そこで彼らは語りかけた。

Verse 11

भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज । न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥

おお人中の虎よ、この落胆を捨てよ。王よ、身を持つ者には、好ましいものにも好ましくないものにも、永く定まる不動の心は見られぬ。

Verse 12

यथा दारु-मयी योषित् नृत्यते कुहकेच्छया । एवम् ईश्वर-तन्त्रोऽयम् ईहते सुख-दुःखयोः ॥

操り手の望みに従って木の女形が舞うように、この人も至上主に支配され、楽と苦のただ中であくせくと動く。

Verse 13

शौरेः सप्तदशाहं वै संयुगानि पराजितः । त्रयोविंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् ॥

私は十七日間、戦場でシャウリ(シュリー・クリシュナ)に繰り返し敗れた。だが二十三の軍団をもって、ただ一度だけ—その一度だけ—彼に勝った。

Verse 14

तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥

それでも私はいつも嘆かず、また喜びに酔うこともない。天命(ダイヴァ)を伴う時が、この世界を駆り立てていると知っているからだ。

Verse 15

अधुनापि वयं सर्वे वीर-यूथप-यूथपाः । पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः ॥

今なお我らは皆—勇士の隊を率いる者たち—取るに足らぬ策であっても、クリシュナに守られたヤドゥ族に敗れた。

Verse 16

रिपवो जिग्युर् अधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥

敵が今は勝っているのは、時が自らの道を進むからだ。だが時が我らに好転するとき、我らが勝利する。

Verse 17

श्री-शुक उवाच एवं प्रबोधितो मित्रैश् चैद्यो 'गात् सानुगः पुरम् । हत-शेषाः पुनस् ते 'पि ययुः स्वं स्वं पुरं नृपाः ॥

シュリー・シュカは語った。友らにこのように諭されて、チャイディヤ(シシュパーラ)は従者とともに自らの都へ帰った。虐殺を生き残った諸王もまた、それぞれ自国の都へ戻っていった。

Verse 18

रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः । पृष्ठतो 'न्वगमत् कृष्णम् अक्षौहिण्या वृतो बली ॥

しかしルクミーは、妹の婚礼が羅刹式の略奪婚となったことに耐えられず、またクリシュナを憎む者として、後方からクリシュナを追撃した。彼は強大で、アクシャウヒニーの大軍に囲まれていた。

Verse 19

रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् । प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः ॥

ルクミーは耐え難い憤りに燃え、激怒して、集まった諸王の聞くところで誓いを立てた。大いなる腕を持つその戦士は戦支度を整え、矢を備えた弓を手にして決意を宣言した。

Verse 20

अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः ॥

「戦場でクリシュナを討ち、さらにルクミニーを取り戻さぬかぎり、私は二度とクンディナに入らぬ。これは真実として汝らに告げる。」

Verse 21

इत्युक्त्वा रथम आरुह्य सारथिं प्राह सत्वरः । चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत् ॥

そう言うと彼は戦車に乗り、急いで御者に命じた。「クリシュナのいる所へ馬を走らせよ。私が彼と戦場で相まみえるためだ。」

Verse 22

अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः । नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता ॥

今日、鋭い矢で、我が妹を力ずくで奪ったあの邪心の牛飼いの武勇の酔いを打ち砕いてやる。

Verse 23

विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य अथाह्वयत् ॥

傲慢にうぬぼれる愚か者は、至上主の測り知れぬ力を知らず、ただ一台の戦車からゴーヴィンダに挑み、「止まれ!止まれ!」と叫んだ。

Verse 24

धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः । आह चात्र क्षणं तिष्ठ यादूनां कुल-पांसन ॥

彼は弓を強く引き絞り、クリシュナを三本の矢で射て、さらに言った。「ここでしばし立て、ヤドゥ族の恥さらしめ!」

Verse 25

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः । हरिष्ये 'द्य मदं मन्द मायिनः कूट-योधिनः ॥

我が妹を盗み、供物をさらう烏のようにどこへ行くつもりだ。今日こそ、鈍い者よ、お前の驕りを剥ぎ取ってやる――欺きの幻術師、卑劣な戦いをする者め。

Verse 26

यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् । स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् ॥

「我が矢に倒される前に伏せよ、乙女を放て!」と彼は叫んだ。だがクリシュナは微笑みつつその弓を断ち、さらに六本の矢でルクミーを射抜いた。

Verse 27

अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः । स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः ॥

彼は八本の矢でシュリー・クリシュナの四頭の馬を倒し、二本で御者を傷つけ、三本で旗印を断った。さらに別の弓を取り、五本の矢でクリシュナを射抜いた。

Verse 28

तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः । पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ॥

矢の雨を受けながらも、アチュタは相手の弓を断ち切った。相手はすぐ別の弓を取ったが、不滅にして外れなき主はそれもまた断った。

Verse 29

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ । यद् यद् आयुधम् आदत्त तत् सर्वं सोऽच्छिनद्धरिः ॥

彼は棍棒、戦斧、三叉戟、盾と剣、さらに槍と投げ槍を取った。だがどの武器を手にしても、ハリはことごとく断ち落とされた。

Verse 30

ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया । कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ॥

すると彼は戦車から跳び降り、剣を手に殺意を抱いて憤怒のままクリシュナへ突進した――燃えさかる火へ飛び込む蛾のように。

Verse 31

तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः । छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः ॥

ルクミーが突進すると、クリシュナはその剣を粉々に砕き、矢で盾を射抜いた。ついでクリシュナは自らの剃刀のごとく鋭い剣を取り、ルクミーを討たんと構えた。

Verse 32

दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला । पतित्वा पादयोर्भर्तुर् उवाच करुणं सती ॥

夫が自分の兄を討とうとしているのを見て、貞淑なるルクミニーは恐れに震えた。彼女は夫君の御足にひれ伏し、哀切な慈悲をもって語った。

Verse 33

श्री-रुक्मिण्य् उवाच योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज ॥

シュリー・ルクミニーは言った。「ヨーガの主、測り知れぬ真我、神々の神、宇宙の主よ。吉祥なる大いなる御腕の方よ、どうか私の兄を殺さないでください。」

Verse 34

श्री-शुक उवाच तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया । कातर्य-विस्रंसित-हेम-मालयाः गृहीत-पादः करुणो न्यवर्तत ॥

シュリー・シュカは語った。彼女は恐れに肢体を震わせ、悲しみに顔は乾き、喉は詰まり、動揺で黄金の花輪もずり落ちたまま、主の御足をつかんだ。すると慈悲深き主は思いとどまられた。

Verse 35

चैलेन बद्ध्वा तमसाधु-कारीणं स-श्मश्रु-केशं प्रवपन व्यरूपयत् । तावन्ममर्दुः पर-सैन्यमद्भुतं यदु-प्रवीरा नलिनीं यथा गजाः ॥

その悪しき者を布で縛り、口髭と髪を剃り落として醜くした。その間にヤドゥ族の精鋭たちは、象が蓮の池を踏み荒らすように、敵軍を驚くほど打ち砕いた。

Verse 36

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् । तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः । विमुच्य बद्धं करुणो भगवान्कृष्णमब्रवीत् ॥

クリシュナのもとへ近づくと、彼らはそこでルクミーがそのような有様—ほとんど死にかけて—いるのを見た。これを見た大能なるサンカルシャナは慈悲により縛めを解き、そしてバガヴァーン・クリシュナに語りかけた。

Verse 37

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् । वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥

おおクリシュナよ、あなたのなさったことは正しくなく、我らにとって恥辱です。髭と髪を剃り落として醜くするのは、友を殺すに等しい。

Verse 38

मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया । सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥

徳ある女性よ、兄の醜状を思って我らを恨まぬように。喜びと苦しみを与える者は他になく、人は自らの業の果を味わうのみ。

Verse 39

बन्धुर् वधार्ह-दोषो ’पि न बन्धोर् वधम् अर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥

たとえ親族が死に値する罪を犯しても、身内が身内を処刑すべきではない。捨て置けばよい—その罪がすでに彼を打ち倒しているのだから、なぜさらに殺すのか。

Verse 40

क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः ॥

これはプラジャーパティたちが定めたクシャトリヤの法である。そこでは兄弟でさえ兄弟を殺し得る;ゆえにそこから最も恐ろしい帰結が生じる。

Verse 41

राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्यम् तेजसः । मानिनो 'न्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि ॥

繁栄の酔いに目をくらまされた驕れる者は、王国・土地・財・女・心の名誉・自らの威力、あるいは他の理由のために、まことに侮辱を投げつける。

Verse 42

तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् । यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् ॥

汝の知性はねじれている。あらゆる生きとし生けるものに敵を見て、無知な者のように、善意の友を常に不吉とし、真に害あるものを善とみなす。

Verse 43

आत्ममोहो नृणामेव कल्पते देवमायया । सुहृद्दुहृदुदासीन इति देहात्ममानिनाम् ॥

主の神聖なるマーヤーによって、人には自己迷妄が起こる。とりわけ身を我とみなす者は、他者を「友」「敵」「無関心」と見分けてしまう。

Verse 44

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् । नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥

至上のアートマンはただ一つ、すべての有身の内に宿る。だが愚か者はそれを多として捉える。光や虚空が本来一つでありながら分かれて見えるように。

Verse 45

देह आद्य-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः । आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् ॥

この身には始まりと終わりがあり、物質・プラーナ・グナから成る。無明によって真我に重ね合わされ、身を持つ者を生死輪廻へと駆り立てる。

Verse 46

नात्मनो ऽन्येन संयोगो वियोगश् चासतस् सति । तद्-हेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः ॥

真実には、真我に他との実在の結合も離別もない。かかる関係は非実在にのみ属する。ゆえに、その誤った同一視が原因としてよく知られるように、見る者と見られるものの関係――眼と形、あるいは太陽とそれが照らすもののようである。

Verse 47

जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् । कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव ॥

生などの変化はただ身体のものであり、真我には決して起こらない。月は欠けてゆく相にあっても滅びないように、魂の「死」もまた新月の闇の夜のごとき見かけにすぎない。

Verse 48

यथा शयान आत्मानं विषयान् फलम् एव च । अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् ॥

眠っている者が夢の中で、自分自身や感官の対象、その結果を—実在しないのに—味わうように、無知な者もまた非実在を実在と思い、繰り返し世間の生存(輪廻)を得る。

Verse 49

तस्माद् अज्ञानजं शोकम् आत्मशोषविमोहनम् । तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥

それゆえ、無知から生じたこの悲しみ—自己を枯らし惑わせる迷い—を、真実の智によって取り除き、己の内に安住せよ。清らかな微笑みの君よ。

Verse 50

श्रीशुक उवाच एवं भगवता तन्वी रामेण प्रतिबोधिताः । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥

シュリー・シュカは語った。かくして主なるラーマに諭されたその細身の姫君は、憂いを捨て、智慧によって心を再び静けさへと収めた。

Verse 51

प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः । स्मरन् विरूप-करणं वितथात्म-मनोरथः । चक्रे भोजकटं नाम निवासाय महत् पुरम् ॥

命の息だけを残し、敵に見捨てられ、力と威光を奪われた彼は、自らが醜く変えられたことを思い出した。望みも砕け、住まいとして「ボージャカタ」と名づける大いなる都を築いた。

Verse 52

अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् । कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा ॥

「あの邪心のクリシュナを討ち、妹を取り戻すまでは、私はクンディナに入らぬ!」そう言い放ち、彼は怒りの炎に焼かれつつその場に留まった。

Verse 53

भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमि-पान् । पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह ॥

クル族の最勝者よ。かくして地上の諸王を打ち破った至上主は、ビーシュマカの娘を御自らの都へ迎え、聖なる作法に則って妻として娶られた。

Verse 54

तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे । अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप ॥

王よ、その時ヤドゥの都では家ごとに大いなる祝祭が催された。ヤドゥの主シュリー・クリシュナにただ一筋に心を捧げる者たちのためであった。

Verse 55

नराः नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः । पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः ॥

喜びに満ちた男女は、宝石の耳飾りを清め磨き上げ、華やかな衣をまとう新郎新婦のために婚礼の贈り物と吉祥の供え物を携えて来た。

Verse 56

सा वृष्णि-पुरी उत्तम्भितेन्द्र-केतुभिः विचित्र-माल्याम्बर-रत्न-तोरणैः । बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् आपूर्ण-कुम्भागरु-धूप-दीपकैः ॥

ヴリシュニ族の都は燦然と輝いた。インドラの旗標のごとく高く掲げられた勝利の幟、色とりどりの花鬘と麗しき衣、宝石をちりばめた門飾り。各戸口には吉祥の品が整えられ、満たされた水壺、芳香のアグル香、そして灯火が置かれていた。

Verse 57

सिक्तमार्गा मदच्युद्भिर् आहूतप्रेष्ठभूभुजाम् । गजैर् द्वाःसु परामृष्ट-रम्भापूगोपशोभिता ॥

招かれた愛しき諸王の象から流れる発情の液で道は潤され、門には象が立ち、都は芭蕉と檳榔樹の飾りで祭礼のごとく美しく彩られていた。

Verse 58

कुरुसृञ्जयकैकेय-विदर्भयदुकुन्तयः । मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥

クル族、スリンジャヤ族、カイケーヤ族、ヴィダルバ族、ヤドゥ族、クンティ族は、興奮のざわめきの中を駆け回り、そこで互いに出会って共に歓喜した。

Verse 59

रुक्मिण्याः हरणं श्रुत्वा गीयमानं ततस् ततः । राजानो राजकन्याश् च बभूवुर् भृशविस्मिताः ॥

ルクミニーの略奪(連れ去り)の物語が至る所で繰り返し歌われるのを聞き、王たちも王女たちもひどく驚嘆した。

Verse 60

द्वारकायाम् अभूद् राजन् महामोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥

王よ、ドヴァーラカーの住民は、ラマー女神にも似たルクミニーを伴って到来した、吉祥の主シュリーの夫君クリシュナを見て、大いなる歓喜に満たされた。