Ashtavakra Gita - Peace
ShantiLiberationSage100 Shlokas

Chapter 18: Chapter 18: Peace - The State of the Liberated Sage

The state of the liberated sage

この広大な章で、アシュターヴァクラはジーヴァンムクタ、すなわち生きながら解脱した者の崇高な境地を説く。彼は、真の幸福はエゴと世界を完全に放棄しなければ不可能であり、その世界は単なる心の投影にすぎないと明かす。この教えは、苦しい努力と瞑想に頼る無知な求道者と、努力なき気づきの中に安住する賢者とを対比する。賢者は、過去の印象という風に吹かれる枯れ葉にたとえられ、行為者意識も欲望もなく自然に行動する。アシュターヴァクラは、悟った者にとっては、得失、喜悲、さらには束縛と解脱といった二元性さえ意味を失うと説く。章の結びでは、賢者は群衆の中にあっても森の中にあっても、あらゆる状況で平静を保つと強調される。なぜなら彼は、不二の真我に永遠に確立されているからである。

Key Concepts

JivanmuktaAkartrtva (Non-doership)Prarabdha (Past impressions)Sahaja (Spontaneous state)Bhavana (Mental projection)Nirayasa (Effortlessness)Svatantrya (Freedom)
Sanskrit recitationAshtavakra Gita Chapter 18

Shlokas in Chapter 18

Verse 1

अष्टावक्र उवाच ॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः । तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८-१॥

アシュターヴァクラは言った。悟りの夜明けに迷妄が夢のごとく消え去るその御方に礼拝する。純粋な至福そのものである、静寂なる光輝に礼拝する。

Verse 2

अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् । न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ १८-२॥

あらゆる富を得て、豊かな快楽を享受したとしても、完全な放棄なしには、真の幸福に至ることはない。

Verse 3

कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः । कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ १८-३॥

義務と苦悩という灼熱の太陽の炎に内なる自己が焼かれるなら、静けさの甘露の流れなしに、どこから寂静と幸福が来ようか。

Verse 4

भवोऽयं भावनामात्रो न किञ्चित् परमार्थतः । नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ १८-४॥

この生成世界はただ心の投影にすぎず、究竟の真実においては何ものでもない。有と無を見分ける者にとって、諸々の自性に無は生じない。

Verse 5

न दूरं न च सङ्कोचाल्लब्धमेवात्मनः पदम् । निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ॥ १८-५॥

自己の境地は遠くにあるのではなく、制限によって得られるものでもない。それはすでに成就しており、分別を離れ、努力なく、不変にして清浄無垢である。

Verse 6

व्यामोहमात्रविरतौ स्वरूपादानमात्रतः । वीतशोका विराजन्ते निरावरणदृष्टयः ॥ १८-६॥

ただ迷妄がやみ、自己の真実の本性のみを受け取るとき、覆いなき眼差しの者たちは憂いを離れて輝く。

Verse 7

समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः । इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ १८-७॥

すべては単なる想像であり、自己は永遠に自由であると知った賢者が、どうして子供のように修行を重ねようか。

Verse 8

आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ । निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ १८-८॥

自己はブラフマンであると確信し、有と無もまた想像されたものと知った無欲の者は、何を知り、何を語り、何をなすのか。

Verse 9

अयं सोऽहमयं नाहमिति क्षीणा विकल्पना । सर्वमात्मेति निश्चित्य तूष्णीम्भूतस्य योगिनः ॥ १८-९॥

「これは私である」「これは私ではない」という想念が尽き果て、すべては自己であると確信したヨーギンは沈黙に住する。

Verse 10

न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता । न सुखं न च वा दुःखमुपशान्तस्य योगिनः ॥ १८-१०॥

寂静に帰したヨーギンにとって、散乱も集中もなく、過剰な知も愚昧もなく、幸福も苦しみもない。

Verse 11

स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने । निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ १८-११॥

自在の王位にも乞食の暮らしにも、得にも失にも、人里にも森にも、心の構築を離れた本性を持つヨーギンには何の差別もない。

Verse 12

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥ १८-१२॥

二元対立から解き放たれたヨーギンにとって、どこにダルマがあり、どこに欲望があり、どこに財があり、どこに識別があるのか。彼には「これは為された」「これは為されていない」という観念もない。

Verse 13

कृत्यं किमपि नैवास्ति न कापि हृदि रञ्जना । यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ १८-१३॥

生前解脱したヨーギンには、なすべきことは何もなく、心にいかなる執着もない。この世での彼の在り方は、ただ生命そのもののようである。

Verse 14

क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता । सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ॥ १८-१४॥

すべての意念が尽きる境に安らう大いなる魂にとって、どこに迷妄があり、どこに世界があり、どこにそれへの瞑想があり、どこに解脱があるのか。

Verse 15

येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ १८-१५॥

この宇宙を見た者は、「それは存在しない」と告げるかもしれない。だが欲望なき者に何ができよう。見ていながら、彼は見ていない。

Verse 16

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् । किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥ १८-१६॥

至高のブラフマンを悟った者は、「私はブラフマンである」と思うかもしれない。だが思いを離れ、第二のものを見ない者が、いったい何を思うのか。

Verse 17

दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ । उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ १८-१७॥

自己の散乱を見た者は、それを制しようとする。だが高貴なる者は散乱せず、達すべきものもない。彼に何をなすことがあろう。

Verse 18

धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् । न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ १८-१८॥

賢者は世人のように世に在りながら、世の尺度を超えている。彼は自己のうちに、サマーディも散乱も、いかなる喪失も見ない。

Verse 19

भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः । नैव किञ्चित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ १८-१९॥

有と無の観念を離れ、満ち足りて欲望なき賢者は、世の目には行為しているように見える。だが真実には、彼によって何もなされていない。

Verse 20

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः । यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ १८-२०॥

賢者には、行為においても退隠においても、何の困難もない。なすべきことが訪れればそれをなし、そして安らかな歓喜にとどまる。

Verse 21

निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः । क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ १८-२१॥

欲なく、依り所なく、自ずから自在で、すべての束縛を解かれた者は、過去のサンスカーラの風に吹かれ、枯れ葉のように動く。

Verse 22

असंसारस्य तु क्वापि न हर्षो न विषादता । स शीतलमना नित्यं विदेह इव राजये ॥ १८-२२॥

輪廻を超えた者には、いずこにも歓喜も悲嘆もない。清涼で静かな心をもって、彼は常に身体なき者のように王者として在る。

Verse 23

कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् । आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ १८-२३॥

アートマンに歓ぶ賢者、清涼で清浄かつ静かな自己をもつ者には、いずこにも何かを捨てたいという欲も、滅びへの恐れもない。

Verse 24

प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया । प्राकृतस्येव धीरस्य न मानो नावमानता ॥ १८-२४॥

心が本来空であり、訪れるままに自発的に行為する賢者には、名誉も不名誉もない。素朴で自然な人におけるように。

Verse 25

कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ १८-२५॥

この行為は身体によってなされるのであり、清浄なる本性の私によるのではない、と観ずる者は、行為していても行為しない。

Verse 26

अतद्वादीव कुरुते न भवेदपि बालिशः । जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ १८-२६॥

生きながら解脱した者は、世間の営みに関わるように見えても幼稚ではない。常に満ち足り栄光に輝き、輪廻のただ中にあっても美しく照る。

Verse 27

नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः । न कल्पते न जानाति न श‍ृणोति न पश्यति ॥ १८-२७॥

賢者は多様な思考に疲れ果て、安息に至る。もはや通常の意味で想像せず、知ることなく、聞くことなく、見ることもない。

Verse 28

असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः । निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ १८-२८॥

三昧にも散乱にもなく、解脱を望むこともその反対もない。大いなる魂は、想像されたものを見極め、ただブラフマンに安住する。

Verse 29

यस्यान्तः स्यादहङ्कारो न करोति करोति सः । निरहङ्कारधीरेण न किञ्चिदकृतं कृतम् ॥ १८-२९॥

内に自我意識を持つ者は、たとえ行為しないように見えても行為している。だが無我の賢者には、すべてを為すように見えても、為されたものも為されぬものもない。

Verse 30

नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् । निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥ १८-३०॥

解脱者の心は輝く。乱れず、満足にも縛られず、行為者性なく、揺らぎなく、望みと疑いを離れている。

Verse 31

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते । निर्निमित्तमिदं किन्तु निर्ध्यायेति विचेष्टते ॥ १८-३१॥

その心は瞑想にも行為にも向かわない。しかも何の因もなく、ただ自然のままに静観し、動いているかのようである。

Verse 32

तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् । अथवा याति सङ्कोचममूढः कोऽपि मूढवत् ॥ १८-३२॥

真理をありのままに聞くと、鈍い者は混迷に陥る。だが迷いなき者は身を慎み、愚者のように見えることもある。

Verse 33

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् । धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥ १८-३३॥

一境集中や心の止滅は、無知な者たちによって熱心に修められる。賢者は眠る者のように自らの本然の境地に住し、為すべき行為を見ない。

Verse 34

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् । तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ १८-३४॥

努力しても、努力しなくても、無知な者は至福の静けさに至らない。真理への確信だけによって、賢者は満ち足り、解脱する。

Verse 35

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम् । आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥ १८-३५॥

清らかで覚知そのもの、愛しきもの、 पूर्ण満で、現象を超え、病苦なきその自己を、修行に没頭する人々は知ることがない。

Verse 36

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा । धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ १८-३६॥

迷える者は行為によっても、行為の形である修習によっても解脱に至らない。幸いなる者は、ただ真知によって自由にして不変にとどまる。

Verse 37

मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ १८-३७॥

愚者はそれになろうと望むことによって、かのブラフマンに至ることはない。賢者は望まずとも、自然に至高のブラフマンの本性を有している。

Verse 38

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः । एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ १८-३८॥

拠り所なく、把握への執着に乱される愚者たちは輪廻を養う。賢者たちは、この災いの根本である存在の根を断ち切った。

Verse 39

न शान्तिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥ १८-३९॥

迷える者は、心を静めようとするがゆえに平安を得ない。真理を確かに悟った賢者は、常に心が静かである。

Verse 40

क्वात्मनो दर्शनं तस्य यद् दृष्टमवलम्बते । धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥ १८-४०॥

見られるものに依りすがる者に、どうして自己の直観があろうか。賢者たちはあれこれの外境を見ず、不滅の自己を見る。

Verse 41

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै । स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ १८-४१॥

強いて制御しようとする迷える者に、どんな止滅がありえよう。自己に憩う賢者には、常に無作為の自然さがある。

Verse 42

भावस्य भावकः कश्चिन् न किञ्चिद् भावकोपरः । उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ १८-४२॥

ある者は存在を創造者と見る。またある者はそれに勝るものはないと見る。さらにある者は、有と無の双方を幻と見て、そのまま乱れずにとどまる。

Verse 43

शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः । न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ॥ १८-४३॥

迷った知性の者たちは、清浄で不二の自己を観想する。しかし深い迷妄のゆえにそれを知らず、生涯満たされないままである。

Verse 44

मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते । निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ १८-४४॥

解脱を求める者の知性は、何らかの拠り所なしにはありえない。だが解脱した者の知性は常に無依で、欲望を離れている。

Verse 45

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः । विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ १८-४५॥

感官の対象という虎を見て、恐れおののく求道者たちは、ただちに一境性の止滅、ニローダの懐へ避難する。

Verse 46

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः । पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥ १८-४६॥

清らかでヴァーサナーを離れた者を見ると、感官対象という象たちは黙って逃げ去る。支配できず、かえって従順な追従者のように仕える。

Verse 47

न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः । पश्यन् श‍ृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ १८-४७॥

心が定まり疑いを離れた者は、解脱という思いすら抱かない。見、聞き、触れ、嗅ぎ、食べながら、来るがままに安らいでいる。

Verse 48

वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः । नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ १८-४८॥

実在を聞くことだけで、清められた智慧は乱れない。そこには正しい行いも誤った行いも、また無関心さえも見いだされない。

Verse 49

यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ १८-४९॥

なすべき行為がその時に現れるなら、素直でまっすぐな者はただそれを行う。善であれ不善であれ、その振る舞いは幼子のように自然である。

Verse 50

स्वातन्त्र्यात्सुखमाप्नोति स्वातन्त्र्याल्लभते परम् । स्वातन्त्र्यान्निर्वृतिं गच्छेत्स्वातन्त्र्यात् परमं पदम् ॥ १८-५०॥

自由より至福が生じ、自由によって至高が得られる。自由より完全な安息に至り、自由によって最高の境地に達する。

Verse 51

अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा । तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥ १८-५१॥

自己は行為者でも享受者でもないと知るとき、そのとき心のすべてのヴリッティ、すなわち変容は消え去る。

Verse 52

उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते । न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥ १८-५२॥

賢者の境地は、たとえ束縛なく無作為であっても輝く。しかし欲望に満ちた迷妄者の静けさは作り物にすぎない。

Verse 53

विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् । निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ १८-५३॥

賢者たちは一切の想念を捨て、心は縛られず、智慧は解き放たれている。大いなる享楽に戯れることも、山の洞窟に入ることもある。

Verse 54

श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् । दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥ १८-५४॥

聖典に通じた者、神格、聖地、女性、王、または愛しい者を見て礼拝しても、賢者の心にはいかなるヴァーサナーも残らない。

Verse 55

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः । विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ १८-५५॥

召使い、息子、妻、孫、親族に嘲られ軽んじられても、ヨーギンは内にわずかな動揺も受けない。

Verse 56

सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते । तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ १८-५६॥

満ち足りているようで、満足に縛られず、悲しむようで、悲しみに沈まない。その不可思議な境地は、同じ境涯の者のみが知る。

Verse 57

कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः । शून्याकारा निराकारा निर्विकारा निरामयाः ॥ १८-५७॥

「なすべきこと」という思いそのものが輪廻である。賢者たちはそれを見ない。彼らは空なる形、無形、不変、苦患を離れた者である。

Verse 58

अकुर्वन्नपि सङ्क्षोभाद् व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ १८-५८॥

愚かな心は、何もしていなくても動揺によりどこでも慌ただしい。しかし善巧なる者は、行為をしていても乱れない。

Verse 59

सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः ॥ १८-५९॥

彼は安らかに坐し、安らかに横たわり、安らかに来たり去ったりする。安らかに語り、安らかに食す。世間の営みの中にあっても、静まった心の者は安穏である。

Verse 60

स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः । महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ १८-६०॥

本性として苦悩なく、世の人々のように日常を営んでいても、彼は大いなる湖のように揺るがず、煩いを去って美しく輝く。

Verse 61

निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ १८-६१॥

愚者の退隠さえも、執着ある活動となる。しかるに賢者の活動さえも、離欲の果をもたらす。

Verse 62

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते । देहे विगलिताशस्य क्व रागः क्व विरागता ॥ १८-६२॥

所有物への離欲は、しばしば愚者にも見られる。だが身体に関わる欲望が消え去った者にとって、どこに執着があり、どこに離欲があろうか。

Verse 63

भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ १८-६३॥

愚者の視線は常に、想念であれ非想念であれ、心の構えに執着している。だが自己に安住する者においては、真実の観想は「見ないこと」という形をとる。

Verse 64

सर्वारम्भेषु निष्कामो यश्चरेद् बालवन् मुनिः । न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ १८-६४॥

あらゆる企てにおいて欲望なく、幼子のように行う牟尼は、行為のさなかにあっても染まらない。彼の本性が清浄だからである。

Verse 65

स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यन् श‍ृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ १८-६५॥

真に祝福された者とは、自己を知る者である。彼はあらゆる境遇において平等にとどまり、見、聞き、触れ、嗅ぎ、食べながらも、心は渇望を離れている。

Verse 66

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ १८-६६॥

常に分別を離れ、虚空のごとき賢者にとって、輪廻はどこにあり、現れはどこにあり、目的はどこにあり、修行はどこにあるのか。

Verse 67

स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः । अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ १८-६७॥

勝利せる者とは、あらゆる目的を捨て、本然の充満を身とし、無限の自己への自然で途切れぬサマーディが常に保たれる者である。

Verse 68

बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः । भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥ १८-६८॥

ここでこれ以上何を語ろうか。真理を知る大いなる魂は、享楽も解脱も望まず、常に至る所で世の味わいから離れている。

Verse 69

महदादि जगद्द्वैतं नाममात्रविजृम्भितम् । विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ १८-६९॥

大原理より始まる二元の世界は、ただ名の展開にすぎない。これを捨て去った清浄なる覚知に、なお何の務めが残るのか。

Verse 70

भ्रमभूतमिदं सर्वं किञ्चिन्नास्तीति निश्चयी । अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ १८-७०॥

このすべては迷妄にすぎず、真に存在するものは何もないと確信する者は、清浄で、対象を超えて輝き、自らの本性によって自然に静まる。

Verse 71

शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः । क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ १८-७१॥

その本性が清浄なる輝きであり、見られるものの実在を見ない者にとって、規範はどこにあり、離欲はどこにあり、捨離はどこにあり、静寂さえどこにあるのか。

Verse 72

स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः । क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ १८-७२॥

無限の姿として輝きながらプラクリティを見ない者にとって、束縛はどこにあり、解脱はどこにあり、歓喜はどこにあり、悲しみはどこにあるのか。

Verse 73

बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते । निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ॥ १८-७३॥

知性の範囲にまでしか及ばぬ輪廻において、展開するのはただマーヤーのみである。賢者は、我が物の思いなく、我執なく、欲望なく、輝く。

Verse 74

अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः । क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ १८-७४॥

不滅のアートマンを見、あらゆる苦悩を離れた牟尼にとって、知識はどこにあり、世界はどこにあり、身体はどこにあり、「私」と「私のもの」はどこにあるのか。

Verse 75

निरोधादीनि कर्माणि जहाति जडधीर्यदि । मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ १८-७५॥

鈍い知性の者が制御などの行いを捨てるなら、その瞬間に心の願望と妄想の戯言へと堕ちる。

Verse 76

मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् । निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥ १८-७६॥

無知なる者は、かの実在を聞いてもなお迷妄を捨てない。外には無分別で迷いなき者のように見えても、内には感官の対象への渇望を抱く。

Verse 77

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् । नाप्नोत्यवसरं कर्तुं वक्तुमेव न किञ्चन ॥ १८-७७॥

知によって行為が解け落ちた者は、世間の目には行為しているように見えても、何かをなす機会も、何かを語る機会も得ない。

Verse 78

क्व तमः क्व प्रकाशो वा हानं क्व च न किञ्चन । निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ॥ १८-७८॥

どこに闇があり、どこに光があるのか。何を捨て、何を捨てぬというのか。常に畏れなく不変なる賢者にとって、それらは何ものでもない。

Verse 79

क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा । अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ १८-७९॥

その本性が語り得ず、いかなる定まった自性も持たぬヨーギンにとって、どこに堅忍があり、どこに識別があり、どこに無畏さえあるのか。

Verse 80

न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि । बहुनात्र किमुक्तेन योगदृष्ट्या न किञ्चन ॥ १८-८०॥

天界もなく、地獄もない。生前解脱さえもない。これ以上何を語ろうか。ヨーガの見地からは、何一つない。

Verse 81

नैव प्रार्थयते लाभं नालाभेनानुशोचति । धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ १८-८१॥

賢者は得ることを願わず、失うことを嘆かない。その心は清涼にして静かで、不死の甘露に満たされているかのようである。

Verse 82

न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति । समदुःखसुखस्तृप्तः किञ्चित् कृत्यं न पश्यति ॥ १८-८२॥

欲なき者は静かな者を称えず、悪しき者をもそしらない。苦と楽に等しく、内に満ち足りて、なすべき何ものも見ない。

Verse 83

धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति । हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ १८-८३॥

賢者は輪廻を憎まず、また自己を見たいとも望まない。歓喜と憤りを離れ、彼は死んでもおらず、生きてもいない。

Verse 84

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च । निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥ १८-८४॥

子や妻などへの執着なく、感官の対象への欲なく、自らの身体にさえ憂いなく、期待を離れた賢者は、燦然と輝く。

Verse 85

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः । स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ॥ १८-८५॥

賢者は至る所で満ち足り、来るものをそのまま受け、国々を自在に歩み、夜の訪れる所に安らぐ。

Verse 86

पततूदेतु वा देहो नास्य चिन्ता महात्मनः । स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥ १८-८६॥

身体が倒れようと起き上がろうと、偉大なる魂は憂えない。自性の地に安住し、彼は輪廻のすべてを忘れ去った。

Verse 87

अकिञ्चनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः । असक्तः सर्वभावेषु केवलो रमते बुधः ॥ १८-८७॥

何ものも持たず、望むままに行い、二元と疑いを離れ、あらゆる存在に執着せず、覚者は独り楽しむ。

Verse 88

निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः । सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥ १८-८८॥

我が物という思いを離れた賢者は輝く。土塊も石も黄金も等しく見、心の結び目は断たれ、ラジャスとタマスは払い落とされた。

Verse 89

सर्वत्रानवधानस्य न किञ्चिद् वासना हृदि । मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ १८-८९॥

解脱し満ち足りた者は、あらゆるものに心を留めず、心にいかなるヴァーサナーもない。彼を誰と比べ得ようか。

Verse 90

जानन्नपि न जानाति पश्यन्नपि न पश्यति । ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ १८-९०॥

知りながら知ることなく、見ながら見ることなく、語りながら語らない。ヴァーサナーなき者のほか、誰がこのようであろう。

Verse 91

भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते । भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ १८-९१॥

乞者であれ王であれ、無欲の者は輝く。諸事における善悪、美醜の思いが彼の内で消え去ったならば。

Verse 92

क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः । निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ १८-९२॥

成就し、偽りなき率直そのものとなったヨーギンにとって、どこに自在があり、どこに制約があり、またどこに真理の確証があろうか。

Verse 93

आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना । अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ १८-९३॥

真我に安らぎ満ち足り、望みなく苦しみを去った者が内に体験するものを、どうして、誰に語ることができよう。

Verse 94

सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च । जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ १८-९४॥

眠っていても熟睡におらず、夢を見ていても夢見ておらず、目覚めていても目覚めていない。賢者は一歩ごとに満ち足りている。

Verse 95

ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः । सुबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहङ्कृतिः ॥ १८-९५॥

知者は思慮しているようでいて憂いなく、感官を具えながら感官なき者のごとし。智慧あるようでいて知性を超え、我があるようでいて我執に染まらない。

Verse 96

न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् । न मुमुक्षुर्न वा मुक्ता न किञ्चिन्न च किञ्चन ॥ १८-९६॥

彼は幸せでも不幸でもなく、離欲でも執着でもない。解脱を求める者でも解脱者でもない。彼は何ものでもなく、また無でもない。

Verse 97

विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् । जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥ १८-९७॥

散乱の中にあっても彼は散乱せず、サマーディにあってもサマーディを有する者ではない。鈍さの中に見えても鈍くなく、学識の中にあっても学者ではない。かの人は幸いである。

Verse 98

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः । समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ १८-९८॥

解脱した者は、あるがまま自己に安らぎ、なすべきことをなし終えて満ち足りる。渇愛なきゆえにあらゆる所で平等にとどまり、なしたこともなさなかったことも思い返さない。

Verse 99

न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति । नैवोद्विजति मरणे जीवने नाभिनन्दति ॥ १८-९९॥

称えられても彼は喜ばず、そしられても怒らない。死に臨んでも動揺せず、生に対しても歓喜しない。

Verse 100

न धावति जनाकीर्णं नारण्यमुपशान्तधीः । यथातथा यत्रतत्र सम एवावतिष्ठते ॥ १८-१००॥

静まった心の者は、人込みへ駆け込むこともなく、森へ逃れることもない。どこにあっても、いかなる在り方でも、彼は平等にして揺るがずとどまる。

Frequently Asked Questions

The analogy of the dry leaf in Verse 21 represents the sage's lack of personal ego or will. Just as a dry leaf is moved by the wind, the sage moves through life propelled by past momentum (Prarabdha) without any personal attachment or desire to control the outcome.

Ashtavakra explains that the ignorant try to achieve peace through effort, meditation, and mind-control, which often leads to more restlessness. In contrast, the wise attain peace simply through the certainty of Truth and by resting in their natural state without any artificial practice.

According to Verse 13 and 51, the sage has no sense of obligation or 'duty' (Kartavya). While they may appear to act in the eyes of the world, they have no internal sense of being the 'doer,' and thus their actions leave no karmic trace.

Ask anything about Chapter 18 of the Ashtavakra Gita

Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.

Not sure where to start?

A free Google sign-in keeps your chat saved across web and the app.

Read Ashtavakra Gita in the Vedapath app

Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.

Continue reading in the Vedapath app

Open in App