अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः । स॒प्त स॒ᳪसदो॑ अष्ट॒मी भू॑त॒साध॑नी । सका॑माँ॒२अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑
agníś ca pṛthivī́ ca sánnate te mé sáṃ namatām adó vāyúś cāntárikṣaṃ ca sánnate te mé sáṃ namatām adá ādityáś ca dyáuś ca sánnate te mé sáṃ namatām adá ā́paś ca váruṇaś ca sánnate te mé sáṃ namatām adáḥ | saptá saṃsádo aṣṭamī́ bhūtasā́dhanī | sakā́mān adhvánas kuru saṃjñā́nam astu me ’munā́
Wahai Agni dan Bumi, yang telah menunduk, hendaklah kalian menunduk bersama kepadaku; wahai Vāyu dan Antarikṣa (ruang antara), yang telah menunduk, hendaklah kalian menunduk bersama kepadaku; wahai Āditya dan Langit, yang telah menunduk, hendaklah kalian menunduk bersama kepadaku; wahai Air-Airan dan Varuṇa, yang telah menunduk, hendaklah kalian menunduk bersama kepadaku. Tujuh adalah sidang-sidang (saṃsad), yang kedelapan ialah peneguh makhluk. Jadikanlah jalan-jalan sesuai kehendak; semoga ada kesepahaman bagiku—dengan yang itu.
अ॒ग्निः । च॒ । पृ॒थि॒वी । च॒ । सन्-न॑ते । ते । मे॒ । सम् । न॑मताम् । अ॒दः । वा॒युः । च॒ । अ॒न्तरि॑क्षम् । च॒ । सन्-न॑ते । ते । मे॒ । सम् । न॑मताम् । अ॒दः । आ॒दि॒त्यः । च॒ । द्यौः । च॒ । सन्-न॑ते । ते । मे॒ । सम् । न॑मताम् । अ॒दः । आपः । च॒ । वरु॑णः । च॒ । सन्-न॑ते । ते । मे॒ । सम् । न॑मताम् । अ॒दः । स॒प्त । स॒ᳪसदः । अ॒ष्ट॒मी । भू॒त-साध॑नी । स-कामान् । अध्वनः । कु॒रु । सम्-ज्ञानम् । अ॒स्तु । मे॒ । अ॒मुना॑