वाजो॑ नो अ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ ऋ॒तुभि॑: कल्पयाति । वाजो॒ हि मा॒ सर्व॑वीरं ज॒जान॒ विश्वा॒ आशा॒ वाज॑पतिर्जयेयम्
vā́jo no adyá prá suvāti dā́naṃ vā́jo devā́n ṛtúbhiḥ kalpayāti | vā́jo hí mā sárvavīraṃ jajā́na víśvā ā́śā vā́japatir jayeyam
Semoga Vāja pada hari ini mendorong bagi kami anugerah; semoga Vāja menata para Dewa selaras dengan musim-musim (ṛtu). Sebab Vāja telah melahirkan aku sebagai pahlawan segenapnya; semoga aku, sebagai penguasa Vāja, memenangkan segala hasrat.
वाजः । नः । अद्य । प्र । सुवाति । दानम् । वाजः । देवान् । ऋतुभिः । कल्पयाति । वाजः । हि । मा । सर्ववीरम् । जजान । विश्वाः । आशाः । वाजपतिः । जयेयम् ।