त्वां ग॑न्ध॒र्वा अ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पति॑: । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत
tvā́ṃ gandharvā́ akhanan tvā́m índras tvā́ṃ bṛ́haspátiḥ | tvā́m oṣadhe sómo rājā́ vidvā́n yákṣmād amucyata
Para Gandharva telah menggali engkau; Indra telah menggali engkau; Bṛhaspati telah menggali engkau. Wahai tumbuhan obat, Raja Soma yang arif, dengan itu terlepas dari yaksma (penyakit yang mengikis).
त्वाम् । गन्धर्वाः । अखनन् । त्वाम् । इन्द्रः । त्वाम् । बृहस्पतिः । त्वाम् । ओषधे । सोमः । राजा । विद्वान् । यक्ष्मात् । अमुच्यत ।