वसो॑ः प॒वित्र॑मसि श॒तधा॑रं॒ वसो॑ः प॒वित्र॑मसि स॒हस्र॑धारम् । दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसो॑ः प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ।
vásoḥ pavítram asi śatádhāraṃ vásoḥ pavítram asi sahásradhāram | devás tvā savitā punātu vásoḥ pavítreṇa śatádhāreṇa supvā́ kāmadhúkṣaḥ ||
Engkau adalah penyaring (pavitra) para Vasu, yang mengalir seratus arus; engkau adalah penyaring para Vasu, yang mengalir seribu arus. Semoga dewa Savitṛ menyucikan engkau dengan penyaring para Vasu, dengan yang berarus seratus; wahai yang amat menyucikan, yang memerah keluar segala hasrat (kāma).
वसोः । पवित्रम् । असि । शत-धारम् । वसोः । पवित्रम् । असि । सहस्र-धारम् । देवः । त्वा । सविता । पुनातु । वसोः । पवित्रेण । शत-धारेण । सुप्वाः । काम-धुक्षः ।