Sukta 6.19
नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः । ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥
नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः । ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥
nṛvát ta indra nṛ́tamābhir ūtī́ vaṃsī́mahi vāmáṃ śrómatebhiḥ | ī́kṣe hí vásva ubháyasya rā́jan dhā́ rátnaṃ máhi sthūráṃ bṛhántam ||
Dengan pertolonganmu yang paling gagah, wahai Indra, kami hendak meraih kebaikan yang diingini melalui ujaran ilham kami; sebab engkau memandang, wahai raja kekayaan, kedua macam harta; maka tetapkanlah pada kami harta pusaka yang agung—padat, besar, dan luas.
नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑माभिः । ऊ॒ती । वं॒सी॒महि॑ । वा॒मम् । श्रोम॑तेभिः । ईक्षे॑ । हि । वस्वः॑ । उ॒भय॑स्य । रा॒ज॒न् । धाः । रत्न॑म् । महि॑ । स्थू॒रम् । बृ॒हन्त॑म् ॥नृवत् । ते । इन्द्र । नृतमाभिः । ऊती । वंसीमहि । वामम् । श्रोमतेभिः । ईक्षे । हि । वस्वः । उभयस्य । राजन् । धाः । रत्नम् । महि । स्थूरम् । बृहन्तम् ॥nṛ-vat | te | indra | nṛ-tamābhiḥ | ūtī | vaṃsīmahi | vāmam | śromatebhiḥ | īkṣe | h i | vasvaḥ | ubhayasya | rājan | dhāḥ | ratnam | mahi | sthūram | bṛhantam