Sukta 10.93
एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये । सदा पाह्यभिष्टये मेदतां वेदता वसो ॥
ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये । सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥
etáṃ śáṃsam indrāsmayúṣṭvaṃ kū́cit sántaṃ sahasāvan abhíṣṭaye | sádā pāhy abhíṣṭaye médatāṃ vedátā vaso íti ||
Wahai Indra, terimalah pujian kami ini—yang merindukan-Mu—meski tampak kecil, demi perlindungan sejati kami. Senantiasa jagalah kami demi tujuan itu; jadikan kami bertambah dalam daya hidup dan dalam pengetahuan, wahai Vasu.
ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये । मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥एतम् । शंसम् । इन्द्र । अस्मयुः । त्वम् । कूचित् । सन्तम् । सहसावन् । अभिष्टये । सदा । पाहि । अभिष्टये । मेदताम् । वेदता । वसो इति ॥etam | śaṃsam | indra | asma-yuḥ | tvam | kū-cit | santam | sahasāvan | abhi ṣṭaye | sadā | pāhi | abhiṣṭaye | medatām | vedatā | vaso iti