Sukta 1.46
उभा पिबतमश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिरूतिभिः ॥
उ॒भा पि॑बतमश्विनो॒भा न॒: शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभि॑: ॥
ubhā́ pibatam aśvinobhā́ naḥ śárma yacchatam | avidríyābhir ūtíbhiḥ ||
Wahai dua Aśvin, minumlah—minumlah sepenuhnya; dan anugerahkanlah kepada kami, sepenuhnya, naungan damai perlindungan-Mu, dengan pertolongan-pertolongan-Mu yang tak terputus dan tak terhalang.
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् । अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिभिः॑ ॥उभा । पिबतम् । अश्विना । उभा । नः । शर्म । यच्छतम् । अविद्रियाभिः । ऊतिभिः ॥ubhā | pibatam | aśvinā | ubhā | naḥ | śarma | yacchatam | avidriyābhiḥ | ūtibhiḥ