वात॑रᳪहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ । यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ विश्व॒वेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु
vā́taraṃhā bhava vājiny ujyámāna índrasyeva dákṣiṇaḥ śríyai ’dhi | yuñjántu tvā marúto viśvavédasa ā́ te tváṣṭā patsú javáṃ dadhātu
हे वाजिन् (पुरस्कार-विजेता), जोते जाते हुए तू वायु-वेगवान हो; इन्द्र के दाहिने हाथ के समान तू श्री (ऐश्वर्य) के लिए वृद्धि को प्राप्त हो। सर्ववेदस् मरुत् तुझे युक्त करें; और त्वष्टा तेरे पगों में वेग (जव) धारण कराए।
वात॑रम्-हा । भव॑ । वाजिनि । यु॒ज्यमा॑नः । इन्द्र॑स्य । इव॒ । दक्षि॑णः । श्रि॒यै । एधि॑ । यु॒ञ्जन्तु॑ । त्वा॒ । म॒रुतः॑ । विश्व॒वेद॑सः । आ । ते॒ । त्वष्टा॑ । प॒त्सु । ज॒वम् । द॒धा॒तु