सोम॒ᳪ राजा॑न॒मव॑से॒ऽग्निम॒न्वा॑रभामहे | आ॒दि॒त्यान्विष्णु॒ᳪ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॒ᳪ स्वाहा॑
sómaṃ rājā́nam ávase ’gním anvā́rabhāmahe | ādityā́n víṣṇuṃ sū́ryaṃ bráhmāṇaṃ ca bṛ́haspátiṃ svā́hā
सहायता के लिए हम सोम-राजा का आश्रय लेते हैं, और उसके अनन्तर अग्नि का; आदित्यों का, विष्णु का, सूर्य का, ब्रह्मन् का और बृहस्पति का—स्वाहा।
सोमम् । राजानम् । अवसे । अग्निम् । अन्वा-रभामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् । स्वाहा ।