विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे
viśvákarman havíṣā várdhanena trātā́ram índram akṛṇor avádhyam | tásmai víśaḥ sám anamant pūrvī́r ayám ugró vihávyó yáthāsat | upayā́magṛhīto ’sī́ndrāya tvā viśvákarmāṇe eṣá te yóniḥ índrāya tvā viśvákarmāṇe
हे विश्वकर्मन्! वर्धक हवि से तूने रक्षक इन्द्र को अवध्य (अजेय) बनाया। उसके लिए प्राचीन काल से अनेक प्रजाएँ नम्र हुईं, ताकि वह जैसा है वैसा ही यह उग्र, बहुत-आह्वान्य वीर बना रहे। उपयाम-गृहीत तू है—इन्द्र के लिए, विश्वकर्मन् के साथ; यह तेरा योनि (आधार) है—इन्द्र के लिए, विश्वकर्मन् के साथ।
विश्व-कर्मन् । हविषा । वर्धनेन । त्रातारम् । इन्द्रम् । अकृणोः । अवध्यम् । तस्मै । विशः । सम्-अनमन्त । पूर्वीः । अयम् । उग्रः । वि-हव्यः । यथा । असत् । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । विश्व-कर्मणः/विश्व-कर्मणे । एषः । ते । योनिः । इन्द्राय । त्वा । विश्व-कर्मणे ।