अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑ः सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से । अग्ने॑ वर्चस्वि॒न्वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम्
agné pavásva svápā asmé várcaḥ suvī́ryam | dádhad rayím máyí póṣam | upayā́magṛhīto ’sy agnáye tvā várcasa eṣá te yóniḥ agnáye tvā várcase | agne várcasvin várcasvā́ṁs tvaṁ devéṣv asi várcasvān aháṁ manuṣyéṣu bhūyāsam
हे अग्नि! तू पवित्र हो; सुन्दर कर्मवाले! हमारे भीतर तेज और श्रेष्ठ वीर्य स्थापित कर; मुझमें धन और पोषण धारण कर। उपयाम-गृहीत यह (आहुति) अग्नि के लिए, तेज के लिए है; यह तेरा योनि (आधार) है—अग्नि के लिए, तेज के लिए। हे अग्नि! तू तेजस्वी है, तेज से परिपूर्ण है; देवों में तू तेजस्वान है—मैं मनुष्यों में तेजस्वान होऊँ।
अग्ने । पवस्व । सु-अपाः । अस्मे इति । वर्चः । सु-वीर्यम् । दधत् । रयिम् । मयि । पोषम् । उप-याम-गृहीतः । असि । अग्नये । त्वा । वर्चसे । एषः । ते । योनिः । अग्नये । त्वा । वर्चसे । अग्ने । वर्चस्विन् । वर्चस्वान् । त्वम् । देवेषु । असि । वर्चस्वान् । अहम् । मनुष्येषु । भूयासम्