माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रुᳪ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् । नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॑:
mā́hir bhū́r mā́ pṛdā́kuḥ | urúṃ hí rājā́ váruṇaś cakā́ra sū́ryāya pánthām ánv-etavā́ u | apáde pā́dān práti-dhātave ’karutā́pavaktā́ hṛdayā́vidhaś cit | námo váruṇāyābhíṣṭhito váruṇasya pā́śaḥ ||
सर्प हानि न करे, चितकबरा सर्प भी न हानि करे। क्योंकि राजा वरुण ने सूर्य के चलने के लिए विस्तृत पथ बनाया है। निर्जन/पदचिह्न-रहित में भी उसने पग स्थापित किए, दृढ़ आधार देने के लिए; वह हृदय को बेधने वाले (दुःख) का भी अपवक्ता—निवारक—है। वरुण को नमस्कार!—(यह) वरुण का पाश (फंदा) है, जो (यहाँ) आरोपित है।
मा । अहिः । भूः । मा । पृदाकुः । उरुम् । हि । राजा । वरुणः । चकार । सूर्याय । पन्थाम् । अन्वेतवा इति । अपदे । पादान् । प्रतिधातवे । अकरुत । अपवक्ता । हृदयाविधः । चित् । नमः । वरुणाय । अभिष्ठितः । वरुणस्य । पाशः ।