अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो नैन॑द्दे॒वा आ॑प्नुव॒न् पूर्व॒मर्श॑त् । तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति
anéjad ékaṃ mánaso javī́yo nainad devā́ āpnuvan pū́rvam árśat | tád dhā́vato ’nyā́n atyéti tíṣṭhat tásminn apó mātáriśvā dadhāti ||
वह एक है, अनेजत्—अचल; मन से भी अधिक वेगवान। देव उसे नहीं पा सके, क्योंकि वह पहले ही आगे बढ़ गया। वह स्थिर रहते हुए भी दौड़ने वालों से आगे निकल जाता है; उसी में मातरिश्वा (वायु) जलों को स्थापित करता है।
अनेजत् । एकम् । मनसः । जवीयः । न । एनत् । देवाः । आप्नुवन् । पूर्वम् । अर्शत् । तत् । धावतः । अन्यान् । अत्येति । तिष्ठत् । तस्मिन् । अपः । मातरिश्वा । दधाति ।