अ॒ग्निᳪ हृद॑येना॒शनि॑ᳪ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना । श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म्
agníṁ hṛ́dayenāśániṁ hṛdayāgréṇa paśupátiṁ kṛtsna-hṛ́dayena bhaváṁ yaknā́ | śárvaṁ matásnābhyām īśā́naṁ manyúnā mahādevám antaḥparśavyénograṁ deváṁ vaniṣṭhúnā vasiṣṭha-hánuḥ śíṅgīni kośyā́bhyām
अग्नि—हृदय से; वज्र—हृदय के अग्रभाग से; पशुपति—सम्पूर्ण हृदय से; भव—यकृत् (जिगर) से। शर्व—दोनों वृक्कों (गुर्दों) से; ईशान—मन्यु (क्रोध/रोष) से; महादेव—अन्तःपर्शु (भीतरी पसलियों) से; उग्र देव—वनिṣ्ठु (कूल्हे/पुट्ठे) से; दृढ़-हनु (बलवान जबड़े वाला)—शृङ्गों (सींगों) से; कोश्य (अण्डकोश/वृषण)—दोनों कोश्याभ्याम् (अण्डकोशों) से।
अ॒ग्निम् । हृद॑येन । अ॒शनि॑म् । हृद॒य॒अ॒ग्रेण॑ । प॒शु॒पतिम् । कृत्स्न॒हृद॑येन । भ॒वम् । य॒क्ना । श॒र्वम् । मत॑स्नाभ्याम् । ईशा॑नम् । म॒न्युना॑ । म॒हा॒दे॒वम् । अ॒न्तः॒प॒र्श॒व्येन॑ । उ॒ग्रम् । दे॒वम् । व॒नि॒ष्ठुना॑ । व॒सि॒ष्ठ॒हनुः॑ । शिङ्गी॑नि । को॒श्याभ्या॑म्