नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व
námas te hárase śocíṣe námas te astv arcíṣe | anyā́ṃs te asmát-tapantu hetáyaḥ pāvakó asmábhyaṃ śivó bhava
हे हरितवर्ण (हरस) अग्नि! तेरे शोचिष् (तेज) को नमस्कार; तेरी अर्चिष् (ज्वाला) को नमस्कार। हे पावक! तेरे शस्त्र/बाण हमसे भिन्न दूसरों को ही तपाएँ; तू हमारे लिए शिव (कल्याणकारी) हो।
नमः । ते । हरसे । शोचिषे । नमः । ते । अस्तु । अर्चिषे । अन्यान् । ते । अस्मत्-तपन्तु । हेतयः । पावकः । अस्मभ्यम् । शिवः । भव