दृते॒ दृᳪह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् । मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे । मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे
dṛ́te dṛ́ṃha mā mitrásya mā cákṣuṣā sárvāṇi bhūtā́ni samī́kṣantām | mitrásyāháṃ cákṣuṣā sárvāṇi bhūtā́ni samī́kṣe | mitrásya cákṣuṣā samī́kṣāmahe
हे दृढे! मुझे दृढ़ कर। मित्र के चक्षु से समस्त भूत मुझे देखें। मित्र के चक्षु से मैं समस्त भूतों को देखता हूँ। मित्र के चक्षु से हम देखते हैं।
दृते । दृंह । मा । मित्रस्य । मा । चक्षुषा । सर्वाणि । भूतानि । सम्-ईक्षन्ताम् । मित्रस्य । अहम् । चक्षुषा । सर्वाणि । भूतानि । सम्-ईक्षे । मित्रस्य । चक्षुषा । सम्-ईक्षामहे