वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान् परा॒के । मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिष॒: सं न॑मन्ता॒ᳪ स्वाहा॑
váha vapā́ṃ jātávedas pitṛ́bhyo yátraínān véttha níhitān parā́ke | médasaḥ kulyā́ úpa tā́n srávantu satyā́ eṣām ā́śiṣaḥ sáṃ namantāṃ svā́hā
हे जातवेदस् (अग्नि)! वपा (आवरण/झिल्ली) को पितरों के पास ले जा, जहाँ तू इन्हें दूर प्रदेश में निहित जानता है। मेद की धाराएँ उनके पास प्रवाहित हों; उनकी सत्य आशीषें हमारी ओर झुककर हमारे साथ संयुक्त हों। स्वाहा।
वह । वपाम् । जात-वेदः । पितृभ्यः । यत्र । एनान् । वेत्थ । निहितान् । पराके । मेदसः । कुल्याः । उप । तान् । स्रवन्तु । सत्याः । एषाम् । आशिषः । सम् । नमन्ताम् । स्वाहा ।