इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे
iḍā́yās tvā padé vayáṃ nā́bhā pṛthivyā́ ádhi | jātávedo nidhīmahy agne havyā́ya vóḍhave
इडा के पद (स्थान) में हम तुझे स्थापित करते हैं, पृथ्वी की नाभि पर। हे जातवेदस्, हे अग्ने, हम तुझे निधि (स्थिर) करते हैं, ताकि तू हवि को वहन करे।
इडायाः । त्वा । पदे । वयम् । नाभा । पृथिव्याः । अधि । जातवेदः । निधीमहि । अग्ने । हव्याय । वोढवे