प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑ख॒ᳪ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑:
prá vo mahe mándamānāyā́ndhaso’rcā viśvā́narāya viśvā́bhuve | índrasya yásya súmakhaṃ sáho máhi śrávo nṛ́mṇaṃ ca ródasī saparyátaḥ
सोमपान से उल्लसित होकर, उस महान के लिए—वैश्वानर, विश्वाभुव (सर्व-भवितव्य) के लिए—स्तुति-गान करो। इन्द्र का वह, जिसके सुमुख, महाबल, महाश्रव और नृम्ण (पुरुषार्थ-शक्ति) को दोनों लोक (रोदसी) पूजते हैं।
प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्व-अभुवे । इन्द्रस्य । यस्य । सु-मखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी । सपर्यतः ।