ततो॑ वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः
táto virā́ḍ ajāyata virā́jo ádhi púruṣaḥ | sá jā́to áty aricyata paścā́d bhū́mim átho púraḥ
तत्पश्चात् विराट् उत्पन्न हुई; और विराट् से पुरुष प्रकट हुआ। जन्म लेकर वह पीछे भी और आगे भी—पृथ्वी को अतिक्रम कर—व्याप्त हो गया।
ततः । विराट् । अजायत । विराटः । अधि । पुरुषः । सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः