यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि
yát te sā̱dé máhasā śū́kr̥tasya pārṣṇyā́ vā káśayā vā tutóda | sru̱céva tā́ havíṣo adhvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi
हे अश्व! जब तू बैठा, तब महाबल से प्रेरित (तेरे) जिस अंग को एड़ी से या चाबुक से चोट लगी—उन सब (पीड़ाओं) को मैं यज्ञों में हवि के लिए स्रुचि (करछी) की भाँति, ब्रह्म-शक्ति से तेरे लिए सम्यक् व्यवस्थित और शान्त करता हूँ।
यत् । ते । सादे । महसाः । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद । स्रुचा-इव । ताः । हविषः । अध्वरेषु । सर्वाः । ताः । ते । ब्रह्मणा । सूदयामि