अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑: सान्तप॒नेभ्य॑: सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्य॑: क्री॒डिभ्य॑: सᳪसृ॒ष्टान्म॒रुद्भ्य॒: स्वत॑वद्भ्योऽनुसृ॒ष्टान् ।। १ ६ ।। उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः
agnáye 'nī́kavate prathamajā́n ā́labhate marúdbhyaḥ sāntapanébhyaḥ savātyā́n marúdbhyo gṛhamedhíbhyo báṣkihān marúdbhyaḥ krīḍíbhyaḥ saṃsṛṣṭā́n marúdbhyaḥ svátavadbhyo 'nusṛṣṭā́n || uktā́ḥ sañcarā́ etā́ aindrāgnā́ḥ prāśṛṅgā́ māhéndrā bahurūpā́ vaiśvakarmaṇā́ḥ
अग्नि—अनीकवान् (अग्रणी), के लिए वह प्रथम-जन्मा (पशु/हविष्य) ग्रहण करता है; मरुत्—सान्तपन (दाहक) के लिए ‘सवात्य’ (याग-विशेष) [ग्रहण करता है]; मरुत्—गृहमेधि (गृह-समृद्धि कराने वाले) के लिए ‘बष्किहा’ [ग्रहण करता है]; मरुत्—क्रीडि (क्रीड़ाशील) के लिए ‘संसृष्ट’ [ग्रहण करता है]; मरुत्—स्वतवद् (स्वबलवान्) के लिए ‘अनुसृष्ट’ [ग्रहण करता है]। ये ‘सञ्चर’ (भ्रमणशील) कहे गए हैं—ऐन्द्राग्न, प्राशृङ्ग, माहेन्द्र, बहुरूप, और वैश्वकर्मण।
अ॒ग्नये॑ । अनी॑कवते । प्र॒थ॒म॒जान् । आ॒ल॒भ॒ते॒ । म॒रुद्भ्यः॑ । सान्तप॒नेभ्यः॑ । स॒वा॒त्यान् । म॒रुद्भ्यः॑ । गृ॒ह॒मे॒धिभ्यः॑ । बष्कि॑हान् । म॒रुद्भ्यः॑ । क्री॒डिभ्यः॑ । सᳪसृ॒ष्टान् । म॒रुद्भ्यः॑ । स्वत॑वद्भ्यः । अ॒नु॒सृ॒ष्टान् । उ॒क्ताः । स॒ञ्च॒राः । ए॒ताः । ऐ॒न्द्रा॒ग्नाः । प्रा॒शृ॒ङ्गाः । मा॒हे॒न्द्राः । ब॒हु॒रू॒पाः । वै॒श्व॒क॒र्म॒णाः