पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑ । येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मा वि॑वेशा३
pṛcchā́mi tvā citáye deva-sakha yádi tvám átra mánasā jagántha | yéṣu víṣṇus tríṣu padéṣv éṣṭas téṣu víśvaṃ bhúvanam ā́ vivéśa ||
हे देवसख! मैं तुझसे बोध के लिए पूछता हूँ—यदि तूने यहाँ मन से उसे प्राप्त किया हो। जिन तीन पदों में विष्णु पूज्य है, उन्हीं में समस्त भुवन (सारा जगत्) प्रवेश कर गया है।
पृच्छामि । त्वा । चितये । देव-सखः । यदि । त्वम् । अत्र । मनसा । जगन्थ । येषु । विष्णुः । त्रिषु । पदेषु । एष्टः । तेषु । विश्वम् । भुवनम् । आ । विवेश ।