यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
yáḥ prāṇató nimíṣato mahitvā́ éka íd rājā́ jágato babhū́va | yá ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidhema
जो प्राण लेने वालों और निमिष करने वालों का, अपने महत्त्व से, एकमात्र राजा बन गया; जो इस जगत् पर—द्विपद और चतुष्पद पर—शासन करता है: हम किस देव को हवि से पूजन अर्पित करें?
यः । प्राणतः । निमिषतः । महित्वा । एकः । इत् । राजा । जगतः । बभूव । यः । ईशे । अस्य । द्विपदः । चतुष्पदः । कस्मै । देवाय । हविषा । विधेम ।