सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः
su-barhír agníḥ pūṣaṇvā́nts tīrṇá-barhir amártyaḥ | bṛhatī́ chánda indriyáṃ trí-vatsó gā́ur váyo dadhúḥ
सु-बर्हिस् वाला अग्नि, पूषण के साथ, विधिवत् बिछे हुए बर्हिस् सहित, अमर है। बृहती छन्द—इन्द्र का तेज: त्रिवत्सो गौ (तीन-रूपा गौ), प्राण-शक्ति रूप में, उन्होंने स्थापित की।
सु॒-॒ब॒र्हिः । अ॒ग्निः । पू॒ष॒ण्वान् । स्ती॒र्ण-॒ब॒र्हिः । अम॑र्त्यः । बृ॒ह॒ती । छन्दः॑ । इ॒न्द्रि॒यम् । त्रि॑-वत्सः । गौः । वयः॑ । दधुः