ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ । ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म्
tísras tredhā́ sárasvaty aśvinā bhā́ratī́ḍā́ | tīvráṃ parísrutā sómam índrāya suṣuvúr mádam ||
तीन हैं, त्रिविध—सरस्वती, अश्विनौ, भारती, इड़ा। तीव्र, भली-भाँति परिष्कृत (छना हुआ) सोम उन्होंने इन्द्र के लिए, मद (उत्साह) हेतु, निचोड़ा।
तिस्रः । त्रेधा । सरस्वती । अश्विना । भारती । इडा । तीव्रम् । परिस्रुताः । सोमम् । इन्द्राय । सुषुवुः । मदम्