जि॒ह्वा मे॑ भ॒द्रं वाङ्महो॒ मनो॑ म॒न्युः स्व॒राड् भाम॑: । मोदा॑: प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सह॑:
jihvā́ me bhadráṃ vā́ṅ máho máno manyúḥ svarā́ḍ bhā́maḥ | módāḥ pramódā aṅgulī́r aṅgā́ni mitráṃ me sáhaḥ
मेरी जिह्वा भद्र (कल्याण) है; वाणी महत्त्व (महिमा) है; मन स्वराज् (स्वाधीन) मन्यु—उत्साह-तेज है; भाम (दीप्ति) मेरा है। मोद और प्रमोद उँगलियाँ और अंग हैं; मित्र मेरा सह (बल) है।
जि॒ह्वा । मे॒ । भ॒द्रम् । वाक् । महः॑ । मनः॑ । म॒न्युः । स्व॒राट् । भामः॑ । मोदाः॑ । प्रमो॒दाः । अ॒ङ्गुलीः॑ । अङ्गा॑नि । मि॒त्रम् । मे॒ । सहः॑