लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒ᳪसं म॒ उप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ आन॑तिः ।
lómāni práyatiḥ máma tváṅ ma ā́natiḥ ā́gatiḥ | mā́ṃsaṃ ma úpanatir vásv ásthi májjā ma ā́natiḥ ||
मेरे लोम प्रयति (संयमित प्रयत्न) हैं; मेरी त्वक् आनति‑आगति (विनयपूर्वक झुकना और समीप जाना) है। मेरा मांस उपनति (निकट‑सेवा/उपस्थित होना) है; मेरी वसा, मेरी अस्थि, मेरा मज्जा—आनति (श्रद्धापूर्वक नम्र झुकाव) हैं।
लोमा॑नि । प्रय॑तिः । मम॑ । त्वक् । म॒ । आन॑तिः । आग॑तिः । मा॒ᳪसम् । म॒ । उप॑नतिः । वस॑ । अस्थि॑ । म॒ज्जा । म॒ । आन॑तिः ।