उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॒षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान्
upahūtā́ḥ pitáraḥ somyā́so barhíṣyeṣu nidhíṣu priyéṣu | tá ā́ gamantu tá ihá śruvántv ádhi bruvantu té 'vantu asmā́n ||
आहूत पितर—सोमप्रिय—बर्हिष्-आसनों पर, प्रिय निधियों में (आसीन) हैं। वे यहाँ आएँ; वे यहीं हमारे वचन सुनें; वे हमारे ऊपर अधिकारपूर्वक वचन कहें; वे हमारी रक्षा करें।
उपहूताः । पितरः । सोम्यासः । बर्हिष्येषु । निधिषु । प्रियेषु । ते । आ । गमन्तु । ते । इह । श्रुवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अस्मान्