वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॒स्त॒न्वो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒मादे॑षु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम् ॥
vaiśvadevī punatī devy ā́gād yasyā imā́ bahvyàs tanvò vītápṛṣṭhāḥ | tayā́ mádantaḥ sadhamā́deṣu vayáṃ syāma pátayo rayīṇā́m ||
वैश्वदेवी—सब देवों की पावन देवी—आ पहुँची है; जिसकी ये अनेक तनुएँ विस्तीर्ण-पृष्ठ और दूर तक फैली हुई हैं। उसके साथ सधमाद (सामूहिक यज्ञ-भोज) में आनन्दित होते हुए, हम धन-सम्पदा के स्वामी बनें।
वै॒श्व॒दे॒वी । पु॑न॒ती । दे॒वी । आ । गा॒त् । यस्याः । इ॒माः । ब॒ह्व्यः । त॒न्वः॑ । वी॒त-पृ॑ष्ठाः । तया॑ । मद॑न्तः । सध॒-मा॒दे॑षु । व॒यम् । स्या॑म । पत॑यः । रयी॒णाम् ॥