यस्ते॒ रस॒: सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्म॒: सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम्
yás te rásaḥ sámbhṛta óṣadhīṣu sómasya śúṣmaḥ súrayā sutásya | téna jinva yájāmānaṃ mádena sárasvatīm aśvínāv índram agním ||
तेरा जो रस औषधियों में संचित है, और सुरा के साथ निचोड़े गए सोम का जो शुष्म (वीर्य) है—उसी से, उसके मद (उत्साह) द्वारा, यजमान को प्रफुल्लित कर; तथा सरस्वती, अश्विनौ, इन्द्र और अग्नि को भी (प्रेरित/पुष्ट) कर।
यः । ते । रसः । सम्भृतः । ओषधीषु । सोमस्य । शुष्मः । सुरया । सुतस्य । तेन । जिन्व । यजमानम् । मदेन । सरस्वतीम् । अश्विनौ । इन्द्रम् । अग्निम् ।